|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.19. अध्यायः 019
Mahabharata - Drona Parva - Chapter Topics
अर्जुनस्य संशप्तकैः सह युद्धम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्च उवाच। 7-19-0x(4305)(45459)
दृष्टा तु सन्निवृत्तांस्तान्संशप्तकगणान्पुनः।
वासुदेवं महात्मानमर्जुनः समभाषत॥ 7-19-1(45460)
चोदयाश्वान्हृषीकेश संशप्तकगणान्प्रति।
नैते हास्यन्ति सङ्ग्रामं जीवन्त इति मे मतिः॥ 7-19-2(45461)
पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च।
अद्यैतान्पातयिष्यामि क्रुद्धो रुद्रः पशूनिव॥ 7-19-3(45462)
सञ्जय उवाच। 7-19-4x(4306)
ततः कृष्णः स्मितं कृत्वा प्रतिनन्द्य शिवेन तम्।
प्रावेशयत दुर्धर्षो यत्रयत्रैच्छदर्जुनः॥ 7-19-4(45463)
स रथो भ्राजतेऽत्यर्थमुह्यमानो रणे तदा।
उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः॥ 7-19-5(45464)
मण्डलानि ततश्चक्रे गतप्रत्यागतानि चे।
यथा शक्ररथो राजन्युद्धे देवासुरे पुरा॥ 7-19-6(45465)
अथ नारायणाः क्रुद्धा विविधायुधपाणयः।
छादयन्तः शरव्रातैः परिवव्रुर्धनञ्जयम्॥ 7-19-7(45466)
अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ।
कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनञ्जयम्॥ 7-19-8(45467)
क्रुद्धस्तु फल्गुनः सङ्ख्ये द्विगुणीकृतविक्रमः।
गाण्डीवं धनुरामृज्य तूर्णं जग्राह संयुगे॥ 7-19-9(45468)
बद्ध्वा च भ्रुकुटिं वक्त्रे क्रोधस्य प्रतिलक्षणम्।
देवदत्तं महाशङ्खं पूरयामास पाण्डवः॥ 7-19-10(45469)
अथास्त्रमरिसङ्घघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः।
ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक्॥ 7-19-11(45470)
अर्जुनप्रतिरूपैस्तैर्नानारूपैर्विमोहिताः।
अन्योन्येनार्जुनं मत्वा स्वमात्मानं च जघ्निरे॥ 7-19-12(45471)
अयमर्जुनोऽयं गोविन्द इमौ पाण्डवयादवौ।
इति ब्रुवाणाः संमूढा जघ्नुरन्योन्यमाहवे॥ 7-19-13(45472)
`अन्योन्यं समरे जघ्नुस्तावका भरतर्षभ'।
मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम्॥ 7-19-14(45473)
`रुधिरोक्षितगात्रास्ते प्रेक्षमाणः परस्परम्'।
अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः॥ 7-19-15(45474)
`रुधिरोत्पीडनास्ते तु रुधिरेण समुक्षिताः।
चन्दनस्य रसेनेव व्यभ्राजन्त रणाजिरे॥ 7-19-16(45475)
ततः प्रसह्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः।
न्यहनत्ताञ्छरैस्तीक्ष्णैस्तमः सूर्य इवांशुभिः॥ 7-19-17(45476)
हतावशिष्टास्ते भूयः परिवार्य धनञ्जयम्।
साश्वध्वजरथं चक्रुरदृश्यं शरवृष्टिभिः'॥ 7-19-18(45477)
ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात्।
कृत्वा तदस्त्रं तान्वीराननयद्यमसादनम्॥ 7-19-19(45478)
अथ प्रहस्य बीभत्सुर्ललित्थान्मालवानपि।
मावेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः॥ 7-19-20(45479)
ते हन्यमाना वीरेण क्षत्रियाः कालचोदिताः।
व्यसृजञ्छरजालानि पार्थे नानाविधानि च॥ 7-19-21(45480)
न ध्वजो नार्जुनस्तत्र न रथो न च केशवः।
प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः॥ 7-19-22(45481)
ततस्ते लब्धलक्षत्वादन्योन्यमभिचुक्रुशुः।
हतौ कृष्णाविति प्रीत्या वासांस्यादुधुवुस्तदा॥ 7-19-23(45482)
भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः।
सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष॥ 7-19-24(45483)
ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत्।
क्वासि पार्थ न पश्यामि कच्चिज्जीवसि शत्रुहन्॥ 7-19-25(45484)
तस्य तद्भाषितं श्रुत्वा त्वरमाणो धनञ्जयः।
वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत्॥ 7-19-26(45485)
ततः संशप्तकव्रातान्साश्वद्विपरथायुधान्।
उवाह भगवान्वायुः शुष्कपर्मचयानिव॥ 7-19-27(45486)
उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना।
प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष॥ 7-19-28(45487)
तांस्तथा व्याकुलीकृत्य त्वरमाणो धनञ्जयः।
जघान निशितैर्बाणैः सहस्राणि शतानि च॥ 7-19-29(45488)
शिरांसि भल्लैरहरद्बाहूनपि च सायुधान्।
हस्तिहस्तोपमांश्चोरूञ्शरैरुर्व्यामपातयत्॥ 7-19-30(45489)
पृष्ठच्छिन्नान्विचरणान्विमस्तकदृगङ्गुलीन्।
नानाङ्गावयवैर्हीनांश्चकारारीन्धनञ्जयः॥ 7-19-31(45490)
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान्।
शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान्॥ 7-19-32(45491)
मुण्डतालवनानीव तत्रतत्र चकाशिरे।
छिन्ना रथध्वजव्राताः केचित्तत्र क्वचित्क्वचित्॥ 7-19-33(45492)
सोत्तरायुधिनो नागाः सपताकाङ्कुशध्वजाः।
पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः॥ 7-19-34(45493)
चामरापीडकवचाः स्रस्तान्त्रनयनास्तथा।
सारोहास्तुरगाः पेतुः पार्तबाणहताः क्षितौ॥ 7-19-35(45494)
विप्रविद्धासिनाराचाश्छिन्नवर्मर्ष्टिशक्तयः।
पत्तयश्चिन्नवर्माणः कृपणाः शेरते हताः॥ 7-19-36(45495)
तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि।
भ्रमद्भिर्निष्टनद्भिश्च क्रूरमायोधनं बभौ॥ 7-19-37(45496)
रजश्च चाप्यभवद्दुर्गा कबन्धशतसङ्कुला॥
तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे। 7-19-38(45497)
आक्रीडमिव रुद्रस्य घ्नतः कालात्यये पशून्॥
कते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः। 7-19-39(45498)
तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः॥
सा भूमीर्भरतश्रेष्ठ निहतैस्तैर्महारथैः। 7-19-40(45499)
आस्तीर्णा सम्बभौ सर्वा प्रेतीभूतैः समन्ततः॥
एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि। 7-19-41(45500)
व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत्॥
तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः। 7-19-42(45501)
युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत्॥ ॥ 7-19-43(45502)
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे एकोनविंशोऽध्यायः॥ 19 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-19-34 सोत्तरायुधिनः उपरिगतैर्योधैः सहिताः॥ 5-19-19 एकोनविंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|